text
stringlengths
1
2.69k
ॐ तपः स्वाध्यायनिरतं तपस्वी वाग्विदां वरम्। नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्॥
कोन्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्। धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढत्नतः॥
चारित्रेण च को युक्तः सर्वभूतेषु को हितः। विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः॥
आत्मवान् को जितक्रोधो द्युतिमान् कोऽनसूयकः। कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे॥
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे। महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्॥
श्रुत्वा चैतत्रिलोकज्ञो वाल्मीकेर्नारदो वचः। श्रूयतामिति चामन्त्र्य प्रहष्टो वाक्यमब्रवीत्॥
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः। मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नर।७।।
इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः। नियतात्मा महावीर्यो श्रुतिमान् धृतिमान् वशी॥
बुद्धिमान् नीतिमान् वाग्मी श्रीमाञ्छत्रुनिबर्हणः। विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः॥
महोरस्को महेष्वासो गूढजत्रुररिंदमः। आजानुबाहुः सुशिराः सुललाटः सुविक्रमः॥
समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्। पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः॥
धर्मज्ञः सत्यसंधश्च प्रजानां च हिते रतः। यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान्॥
प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः। रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता। वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः॥
सर्वशास्त्रार्थतत्वज्ञः स्मृतिमान् प्रतिभानवान्। सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः॥
सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः। आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः॥
स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः। समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव॥
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः। कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः॥
धनदेन समस्त्यागे सत्ये धर्म इवापरः। तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम्॥ ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथः सुतम्। प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया॥ यौवराज्येन संयोक्तुमैच्छत् प्रीत्या महीपतिः।
तस्याभिषेकसम्भारान्दृष्ट्वा भार्याऽथ कैकयी॥ पूर्वं दत्तवरा देवी वरमेनमयाचत। विवासं च रामस्य भरतस्याभिषेचनम्॥
स सत्यवचनात् राजा धर्मपाशेन संयतः। विवासयामास सुतं रामं दशरथः प्रियम्॥
स जगाम वनं वीरः प्रतिज्ञामनुपालयन्। पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात्॥
तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह। स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः॥ भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन्।
रामस्य दयिता भार्या नित्यं प्राणसमाहिता॥ जनकस्य कुले जाता देवमायेव निर्मिता। सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः॥ सीताप्यनुगता रामं शशिनं रोहिणी यथा। पौरैरनुगतो दूरं पित्रा दशरथेन च॥
शृङ्गवेरपुरे सुतं गङ्गाकूले व्यसर्जयत्। गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम्॥ गुहेन सहितो रामो लक्ष्मणेन च सीतया।
ते वनेन वनं गत्वा नदीस्तीर्वा बहूदकाः॥ चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्। रम्यमावसथं कृत्वा रममाणा वने त्रयः॥
देवगन्धर्वसंकाशास्तत्र ते न्यवसन् सुखम्। चित्रकूटं गते रामे पुत्रशोकातुरस्तदा॥ राजा दशरथः स्वर्ग जगाम विलपन् सुतम्।
गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः॥ नियुज्यमानो राज्याय नैच्छद् राज्यं महाबलः। स जगाम वनं वीरो रामपादप्रसादकः॥
गत्वा तु स महात्मानं रामं सत्यपराक्रमम्। अयाचद् भ्रातरं राममार्यभावपुरस्कृतः॥
त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत्। रामोऽपि परमोदारः सुमुखः सुमहायशाः॥ न चैच्छत् पितुरादेशाद् राज्यं रामो महाबलः। पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः॥ निवर्तयामास ततो भरतं भरताग्रजः।
स काममनवाप्यैव रामपादावुपस्पृशन्॥ नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया।
गते तु भरते श्रीमान् सत्यसंधो जितेन्द्रियः॥ रामस्तु पुनरालक्ष्य नागरस्य जनस्य च। तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह॥
प्रविश्य तु महारण्यं रामो राजीवलोचनः । विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥ सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा।
अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्॥ खङ्गं च परमप्रीतस्तूणी चाक्षयसायको।
वसतस्तस्य रामस्य वने वनचरैः सह॥ ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम्।
स तेषां प्रतिशुश्राव राक्षसानां तदा वने॥ प्रतिज्ञातश्च रामेण वधः संयति राक्षसाम्। ऋषीणामग्निकल्पानां दण्डकारण्यवासिनाम्॥
तेन तत्रैव वसता जनस्थाननिवासिनी। विरूपिता शूर्पणखा राक्षसी कामरूपिणी॥
ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान्। खरं त्रिशिरसं चैव दूषणं चैव राक्षसम्॥ निजधान रणे रामस्तेषां चैव पदानुगान्। वने तस्मिन् निवसता जनस्थाननिवासिनाम्॥ रक्षसां निहतान्यासन् सहस्राणि चतुर्दश।
ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्च्छितः।॥ सहायं वरयामास मारीचं नाम राक्षसम्।
चार्यमाणः सु.हुशो मारीचेन स रावणः॥ न विरोधो बलवता क्षमो रावण तेन ते। अनादृत्य तु तद्वाक्यं रावणः कालचोदितः॥ जगाम सहमारीचस्तस्याश्रमपदं तदा।
तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥ जहार भार्या रामस्य गृधं हत्वा जटायुषम्।
गृधं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥ राघवः शोकसंतप्तो विललापाकुलेन्द्रियः।
ततस्तेनैव शोकेन गृधं दग्ध्वा जटायुषम्॥ मार्गमाणो वने सीतां राक्षसं संददर्श ह। कबन्धं नाम रूपेण विकृतं घोरदर्शनम्॥ तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः।
स चास्य कथयामास शबरी धर्मचारिणीम्॥ श्रमणां धर्मनिपुणामभिगच्छेति राघव।
सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः॥ शबर्या पूजितः सम्यग् रामो दशरथात्मजः।
पम्पातीरे हनुमता सङ्गतो वानरेण ह॥ हनुमद्वचनाच्चैव सुग्रीवेण समागतः। सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः।५९।। आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः
सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः॥ चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम्।
ततो वानरराजेन वैरानुकथनं प्रति ॥ रामायावेदितं सर्वं प्रणयात् दुःखितेन च।
प्रतिज्ञातं च रामेण तदा वालिवधं प्रति ॥ वालिनश्च बलं तत्र कथयामास वानरः। सुग्रीवः शङ्कितश्चासीनित्यं वीर्येण राघवे॥
राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम्। दर्शयामास सुग्रीवो महापर्वतन्निभम्॥
उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः। पादाङ्गुष्ठेन चिक्षेप सम्पूर्ण दशयोजनम्॥
बिभेद च पुनस्तालान् सप्तैकेन महेषुणा। गिरिं रसातलं चैव जनयन् प्रत्ययं तदा॥
ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः। किष्किन्धां रामसहितो जगाम च गुहां तदा॥
ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः। तेन नादेन महता निर्जगाम हरीश्वरः॥ अनुमान्य तदा तारां सुग्रीवेण समागतः। निजघान च तत्रैनं शरेणैकेन राघवः॥
ततः सुग्रीववचनाद्धत्वा बालिनमाहवे। सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत्॥
स च सर्वान् समानीय वानरान् वानरर्षभः। दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्।७१ ।।
ततो गृध्रस्य वचनात् सम्पातेर्हनुमान् बली। शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्॥
तंत्र लङ्कां समासाद्य मुरीं रावणपालिताम्। ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्॥
निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च। समाश्वास्य च वैदेहीं मर्दयामास तोरणम्॥
पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि। शूरमक्षं च निक्षिप्य ग्रहणं समुपागमत्॥
अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात्। मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया॥
ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम्। रामाय प्रियमाख्यातुं पुनरायान्महाकपिः। ७७।।
सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्। न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः। ७८ ।।
ततः सुग्रीवसहितो गत्वा तीरं महोदधेः। समुद्र क्षोभयामास शरैरादित्यसंनिभैः॥
दर्शयामास चात्मानं समुद्रः सरितां पतिः। समुद्रवचनाच्चैव नलं सेतुमकारयत्॥
तेन गत्वा पुरी लङ्कां हत्वा रावणमाहवे। रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥
तामुवाच ततो रामः परुषं जनसंसदि। अमृष्यमाणा सा सीता विवेश ज्वलनं सती॥
ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम्। कर्मणा तेन महता त्रैलोक्यं सचराचरम्॥ सदेवर्षिगणं तुष्टं राघवस्य महात्मनः।
बभौ रामः सम्प्रहृष्टः पूजितः सर्वदैवतैः५५८४ ।। अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम्। कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह॥
देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान्। अयोध्या प्रस्थितो रामः पुष्पकेण सुहृद्वृतः॥
भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः। भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥
पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा। पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा॥
नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः। रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान्॥
प्रहृष्टमुदितो रेकस्तुष्टः पुष्टः सुधार्मिकः। निरामयो रोगश्च दुर्भिक्षभयवर्जितः॥
न पुत्रमरणं केचिद् द्रक्ष्यन्ति पुरुषाः क्वचित्। नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः॥
न चाग्निजं भयं किंचिन्नाप्सु मज्जन्ति जन्तवः। न वातजं भयं किंचिन्नापि ज्वरकृतं तथा॥ न चापि क्षुद्भयं तत्र न तस्करभयं तथा। नगराणि च राष्ट्राणि धनधान्ययुतानि च॥ नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा।
अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः॥ गवां कोट्ययुतं दत्त्वा विद्वद्भयो विधिपूर्वकम्। असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः॥ राजवंशाञ्छतगुणान् स्थापयिष्यति राघवः। चातुर्वयं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति।।९६
दशवर्षसहस्राणि दशवर्षशतानि च। रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति॥
इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम्। यः पठेत् रामचरितं सर्वपापैः प्रमुच्यते॥
एतदाख्यानमायुष्यं पठन् रामायणं नरः। सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महायते॥
पठन् द्विजो वागृषभत्वमीयात् स्यात् क्षत्रियो भूमिपतित्वमीयात्। ज्जनश्च शूद्रोऽपि महत्त्वमीयात्॥
नारदस्य तु तद् वाक्यं श्रुत्वा वाक्यविशारदः। पूजयामास धर्मात्मा सह शिष्यो महामुनिम्॥
यथावत् पूजितस्तेन देवर्षि रदस्तथा। आपृच्छयैवाभ्यनुज्ञातः स जगाम विहायसम्॥
स मुहूर्तं गते तस्मिन् देवलोकं मुनिस्तदा। जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः॥
स तु तीरं समासाद्य तमसाया मुनिस्तदा। शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्॥
अकर्दममिदं तीर्थे भरद्वाज निशामय। रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा।५।।
न्यस्यतां कलशस्तात दीयतां वल्कलं मम। इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्॥
एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना। प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरुः॥
स शिष्याहस्तदादाय वल्कलं नियतेन्द्रियः। विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम्।।।।।
तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम्। ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम्॥
तस्मात् तु मिथुनादेकं पुमांसं पापनिश्चयः। जघान वैरनिलयो निषादस्तस्य पश्यतः॥
तं शोणितपरीताङ्ग चेष्टमानं महीतले। भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम्॥
वियुक्ता पतिना तेन द्विजेन सहचारिणा। ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन वै॥
तथाविधं द्विजं दृष्ट्वा निषादेन निपातितम्। ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत॥
ततः करुणवेदित्वादधर्मोऽयमिति द्विजः। निशाम्य रुदती क्रौञ्चीमिदं वचनमब्रवीत्॥
मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥
तस्येत्थं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः। शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया॥
चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम्। शिष्यं चैवाब्रवीद् वाक्यमिदं स मुनिपुङ्गवः॥
पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः। शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा॥
शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम्। प्रतिजग्राह संतुष्टस्तस्य तुष्टोऽभवन्मुनि ॥