text
stringlengths
1
2.69k
ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये। सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम्॥
ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत्। अवज्ञया न दातव्यं कस्याचिल्लीलयापि वा॥ अवज्ञया कृतं हन्याद् दातारं नात्र संशयः।
ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः॥ बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह।
ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत्॥ उपयाता नरव्याघ्र राजानस्तव शासनात्। मयापि सत्कृताः सर्वे यथार्ह राजसत्तम॥
यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः। निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात्॥
सर्वकामैरुपहतैरुपेतं वै समन्ततः। द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम्॥
तथा वसिष्ठवचनादृष्यशृङ्गस्य चोभयोः। दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः॥
ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः। ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा॥ यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि। श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत्॥
अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे। सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥
ऋष्यशृङ्गं पुरस्कृत्य कर्म चकुर्द्विजर्षभाः। अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः॥
कर्म कुर्वन्ति विधिवद् याजका वेदपारगाः। यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः॥
प्रवर्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः। चक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः॥ अभिपूज्य तदा हृष्टाः सर्वे चक्रुर्यथाविधि। प्रातः सवनपूर्वाणि कर्माणि मुनिपुङ्गवाः॥
ऐन्द्रश्च विधिवद् दत्तो राजा चाभिषुतोऽनघः। मध्यंदिनं च सवनं प्रावर्तत यथाक्रमम्॥
तृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः। चकुस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुङ्गवाः ॥
आह्वयाञ्चक्रिरे तत्र शक्रादीन् विबुधोत्तमान्। ऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः॥
गीतिभिर्मधुरैः स्निग्धैमन्त्राबानैर्यथार्हतः। होतारो ददुरावाह्य हविर्भागान् दिवौकसाम्॥
न चाहुतमभूत् तत्र स्खलितं वा न किंचन। दृश्यते ब्रह्मवत् सर्व क्षेमयुक्तं हि चक्रिरे॥
न तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते। नाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा॥
ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते। तापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते॥ वृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च। अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते॥
दीयतां दीयतामन्नं वासांसि विविधानि च। इति संचोदितास्तत्र तथा चक्रनेकशः॥
अन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः। दिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा॥
नानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा। अन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः॥
अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः। अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः॥
स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन्। उपासन्ते च तानन्ये सुमृष्टमणिकुण्डलाः॥
कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि। प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया॥
दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः। सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः॥
नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः। सदस्यास्तस्य वै राज्ञो नावादकुशलो द्विजः॥
प्राप्ते यूपाच्छ्ये तस्मिन् षड्बैल्वाः खादिरास्तथा। तावन्तो बिल्वसहिताः पर्णिनश्च तथा परे॥ श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा। द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहो॥
कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदः शोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन्॥ एकविंशतियूपास्ते एकविंशत्यरत्नयः। वासोभिरेकविंशद्भिरेकैकं समलङ्कृताः॥ विन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः। अष्टास्रयः सर्व एव श्लक्ष्णरूपसमन्विताः॥
आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः। सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि॥
इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः। चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शिल्पकर्मणि॥
स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः। गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः॥ नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम्। उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः॥ शामित्रे तु हयस्तत्र तथा जलचराश्च ये। ऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा॥
पशूनां त्रिशतं तत्र यूपेषु नियतं तदा। अश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य ह ॥
कौसल्या तं हयं तत्र परिचर्य समन्ततः। कृपाणैर्विससारैनं त्रिभिः परमया मुदा॥
पतत्त्रिणा तथा सार्धं सुस्थितेन च चेतसा। अवसद् रजनीमेकां कौसल्या धर्मकाम्यया।॥
होताध्वर्युस्तथोद्गाता हयेन समयोजयन्। महिष्या परिवृत्त्याथ वावातामपरां तथा॥ पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः। ऋत्विकपरमसम्पन्नः श्रपयामास शास्त्रतः॥
धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः। यथाकालं यथान्यायं निर्गुदन् पापमात्मनः॥
हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः। अग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्विजः॥
प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः। अश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते॥ त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः। चतुष्टोममहस्तस्य प्रथमं परिकल्पितम्॥ उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम्। कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥
ज्योतिष्ठोमायुषी चैवमतिरात्रो च निर्मितौ। अभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः।॥
प्राचीं होने ददौ राजा दिशं स्वकुलवर्धनः। अध्वर्यवे प्रतीची तु ब्रह्मणे दक्षिणां दिशम्॥ उद्गात्रे तु तथोदीची दक्षिणैषा विनिर्मिता। अश्वमेधे महायज्ञे स्वयंभूविहिते पुरा ॥
क्रतुं समाप्य तु तदा न्यायत: पुरुषर्षभः। ऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः॥ एवं दत्त्वा प्रहृष्टोऽभूच्छीमानिक्ष्वाकुनन्दनः। ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्विषम्॥
भवानेव महीं कृत्स्नामेको रक्षितुमर्हति। न भूम्या कार्यमस्माकं नहि शक्तां स्म पालने॥ रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप। निष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति॥
मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम्। तत् प्रयच्छ नृपश्रेष्ठ धरण्या न प्रयोजनम्॥
एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः। गवां शतसहस्राणि दश तेभ्यो ददौ नृपः॥ दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम्।
ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु।५१।। ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते। ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः॥ सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम्।
ततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः॥ जाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा।
दरिद्राय द्विजायाथ हस्ताभरणमुत्तमम्॥ कस्मैचिद् याचमानाय ददौ राघवनन्दनः।
ततः प्रीतेषु विधिवत् द्विजेषु द्विजवत्सलः॥ प्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः।
तस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः॥ उदारस्य नृवीरस्य धरण्यां पतितस्य च।
ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम्॥ पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः। ततोऽब्रवीदृष्यशृङ्ग राजा दशरथस्तदा॥ कुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रत।
तथेति च स राजानमुवाच द्विजसत्तमः। भविष्यन्ति सुता राजश्चत्वारस्ते कुलोद्वहाः॥
स तस्य वाक्यं मधुरं निशम्य प्रणम्य तस्मै प्रयतो नृपेन्द्रः। जगाम हर्ष परमं महात्मा तमृष्यशृङ्ग पुनरप्युवाच॥
मेधावी तु ततो ध्यात्वा स किंञ्चिदिदमुत्तरम्। लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत्॥
इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात्। अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः॥
ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात्। जुहावाग्नौ च तेजस्वी मन्त्रदृष्टेन कर्मणा॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः। भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥
ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः। अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं ततः॥
भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः। सर्वान् नो बाधते वीर्याच्छासितुं तं न शक्नुमः॥
त्वया तस्मै वरो दत्तः प्रीतेन भगवंस्तदा। मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥
उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः। शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति॥
ऋषीन् यक्षान् सगन्धर्वान् ब्राह्मणानसुरांस्तदा। अतिक्रामति दुर्धर्षो वरदानेन मोहितः॥
नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः। चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते॥
तन्महन्नोभयं तस्माद् राक्षसाद् घोरदर्शनात्। वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि॥
एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत्। हन्तायं विदितस्तस्य वधोपायो दुरात्मनः॥ तेन गन्धर्वयक्षाणां देवतानां च रक्षसाम्। अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया॥
नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा। तस्मात्स मानुषाद्वध्यो मृत्युर्नान्योऽस्य विद्यते॥
एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम्। देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा॥
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः। शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः॥ वैनतेयं समारुह्य भास्करस्तोयदं यथा। तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः॥ ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः।
तमब्रुवन् सुराः सर्वे समभिष्ट्रय संनताः॥ त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया।
राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो॥ धर्मज्ञस्य वदान्यस्य महार्षिसमतेजसः। अस्य भार्यासु तिसृषु ह्रीश्रीकीर्युपमासु च॥ विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम्। तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम्॥ अवध्यं दैवतैर्विष्णो समरे जहि रावणम्। स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ॥
राक्षसो रावणो मूल् वीर्योद्रेकेण बाधते। ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा॥ क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः।
वधार्थं वयमायातास्तस्य वै मुनिभिः सह ॥ सिद्धगन्धर्वयक्षाश्च ततस्त्वां शरणं गताः। त्वं गतिः परमा देव सर्वेषां नः परंतप ॥
वधाय देवशत्रूणां नृणां लोके मनः कुरु। एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुङ्गवः॥ पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः। अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान्॥
भयं त्यजत भद्रं वो हितार्थं युधि रावणम्। सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम्॥ हत्वा क्रूरं दुराधर्ष देवर्षीणां भयावहम्। दशवर्षसहस्राणि दशवर्षशतानि च॥
वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम्। एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान्॥
मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः। ततः पद्मपलाशाक्षः कृत्वाऽऽत्मानं चतुर्विधम्॥ पितरं रोचयामास तदा दशरथं नृपम्।
ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः। स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम्॥
तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम्। विरावणं साधुतपस्विकण्टकं तपस्विनामुद्धर तं भयावहम्॥
तमेव हत्वा सबलं सबान्धवं विरावणं रावणमुग्रपौरुषम्। स्वर्लोकमागच्छ गतज्वरश्चिरं सुरेन्द्रगुप्तं गतदोषकल्मषम्॥
ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः। जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत्॥ उपायः को वधे तस्य राक्षसाधिपतेः सुराः। यमहं तं समास्थाय निहन्यामृषिकण्टकम्॥
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम्। मानुषं रूपमास्थाय रावणं जहि संयुगे॥
स हि तेपे तपस्तीवं दीर्घकालमरिंदमः। येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः॥
संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः। नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात्॥
अवज्ञाताः पुरा तेन वरदाने हि मानवाः। एवं पितामहात् तस्माद् वरदानेन गर्वितः॥
उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति। तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप॥
इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान्। पितरं रोचयामास तदा दशरथं नृपम्॥
स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः। अयजद् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः॥
स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम्। अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः॥
ततो वै यजमानस्य पावकादतुलप्रभम्। प्रादुर्भूतं महद् भूतं महावीर्य महाबलम्॥ कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम्। स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम्॥ शुभलक्षणसम्पन्नं दिव्याभरणभूषितम्। शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम्॥ दिवाकरसमाकारं दीप्तानलशिखोपमम्। तप्तजाम्बूनदमयों राजतान्तपरिच्छदाम्॥ दिव्यपायससम्पूर्णां पात्री पत्नीमिव प्रियाम्। प्रगृह्य विपुलां दोभ्यां स्वयं मायामयीमिव ॥
समवेक्ष्याब्रवीद् वाक्यमिदं दशरथं नृपम्। प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप॥
ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः। भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते॥
अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत्। राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥
इदं तु नृपशार्दूल पायसं देवनिर्मितम्। प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम्॥ भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै। तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप॥
तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम्। पात्री देवानसम्पूर्णा देवदत्तां हिरण्मयीम्॥ अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम्। मुदा परमया युक्तश्चकाराभिप्रदक्षिणम्॥
ततो दशरथः प्राप्य पायसं देवनिर्मितम्। बभूव परमप्रीतः प्राप्य वित्तमिवाधनः॥ ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम्। संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत॥
हर्षरश्मिभिरुद्योतं तस्यान्तः पुरमाबभौ। शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः॥
सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रीत्। पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः॥
कौसल्यायै नरपतिः पायसार्धं ददौ तदा। अर्धादर्धं ददौ चापि सुमित्रायै नराधिप२७ ।।
कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात्। प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम्॥ अनुचिन्त्य सुमित्रायै पुनरेव महामतिः। एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥
ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः। सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः॥