source
stringlengths
1
11.1k
target
stringlengths
1
10.5k
उर्वीम्‌- उरुशब्दात्‌ स्त्रीप्रत्यये उर्वीशब्दः निष्पन्नः।
nan
तस्य द्वितीयैकवचने उर्वीम्‌ इति रूपम्‌।
nan
यजुषा- यजुष्‌-शब्दस्य तृतीयैकवचने यजुषा इति रूपम्‌।
nan
धृतदक्षा- धृतः दक्षः ययोस्तौ धृतदक्षौ इति बहुव्रीहिसमासः।
nan
सम्बद्धौ प्रथमायाः द्विवचनस्य आकारः ।
nan
आसाथे- आस्‌-धातोः आत्मनेपदे लट्-लकारे मध्यमपुरुषद्विवचने आसाथे इति रूपम्‌।
nan
अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्वन्तः।
nan
राजाना क्षत्रमहणीयमाना सहस्रस्थूणं बिभृथः स॒ह द्दौ॥
nan
६॥ पदपाठः- अक्रविऽहस्ता।
nan
सुऽकृते।
nan
परःऽपा।
nan
यम्‌।
nan
त्रासाथे इति।
nan
व॒रुणा।
nan
इळासु।
nan
राजाना।
nan
क्षत्रम्‌।
nan
अरह॑णीयमाना।
nan
सहस्र॑ऽस्थूणम्‌।
nan
बिभृथः।
nan
युवां यम्‌ इळासु अन्तः त्रासाथे सुकृते अक्रविहस्ता परस्पा।
nan
राजाना अहणीयमाना द्वौ सह क्षत्रम्‌ सहस्रस्थृणं विभृथः।
nan
व्याख्या- अक्रविहस्ता अकृपणहस्तौ दानशूरावित्यर्थः।
nan
कस्मै।
nan
सुकृते शोभनस्तुतिकर्त्रे।
nan
परस्पा परस्तात्‌ पातारौ रक्षितारौ हे वरुणा मित्रावरुणौ युवां यं यजमानम्‌ इळासु यागभूमिषु अन्तः मध्ये त्रासाथे रक्षथः तस्मै सुकृते अक्रविहस्ता परस्पा च भवथ इति सम्बन्धः।
nan
किञ्च युवां राजाना राजमानौ अहृणीयमाना अक्रुध्यन्तौ द्वौ परस्परं सह साहित्येन क्षत्रं धनं सहस्रस्थूणम्‌ अनेकसहस्रस्तम्भोपेतं सौधादिरूपं गृहं च बभृथः धारयथः।
nan
सुकृते यजमानाय।
nan
अथवा क्षत्रं बलम्‌,अपरिमिताभिः स्थूणाभिरुपेतं यज्ञभवनं, अथवा रथं च गमनार्थं सह धारयथः।
nan
सरलार्थः- हे मित्रावरुणौ युवां यं यजमानं यज्ञभूमेः मध्यभागे रक्षथः, तं स्तुतिकारिणं यजमानं प्रति अकृपणहस्तौ तस्य पालनकारिणौ भवताम्‌।
nan
हे राजानौ, युवां क्रोधहीनौ भूत्वा एकत्रीभूतशक्त्या सहस्रस्तम्भयुक्तस्थूणं धारयताम् ।
nan
अक्रविहस्ता- न क्रविः अक्रविः, अक्रवी हस्तौ ययोस्तौ अक्रविहस्तौ इति बहुव्रीहिः, सुपः डा आदेशः।
nan
सुकृते- शोभनं करोति इति विग्रहे सुपूर्वककृ-धातोः क्विप्प्रत्यये सुकृत्‌ इति शब्दः निष्पन्नः।
nan
तस्य चतुर्थ्यकवचने सुकृते इति रूपम्‌।
nan
अहृणीयमाना- हृणीङ्-धातोः शानच्प्रत्यये हृणीयमाना इति रूपम्‌।
nan
न हृणीयमाना अहृणीयमाना इति नञ्समासः।
nan
सहस्रस्थूणम्‌- सहस्रं स्थूणाः यस्य तं सहस्रस्थूणम्‌ इति बहुव्रीहिसमासः ।
nan
विभृथः- भृ-धातोः परस्मैपदे लट्‌-लकारे मध्यमपुरुषद्विवचने विभृथः इति रूपम्‌।
nan
हिर॑ण्यनिर्णिगयों अस्य स्थूणा वि भ्राजते दिव्यश्वाज॑नीव।
nan
भद्रे क्षेत्रे निमिता तिल्विले वा स॒नेम मध्वो अधिगर्त्यस्य॥
nan
७ ।। पदपाठः- हिर॑ण्यनिर्णिक्‌।
nan
अय॑:।
nan
अस्य। स्थृणा।
nan
वि।
nan
भ्राजते।
nan
दिवि।
nan
भद्रे क्षेत्र।
nan
निऽमिता।
nan
तिल्विले।
nan
वा।
nan
स॒नेम।
nan
मध्व॑:।
nan
७॥ अन्वयः- हिरण्यनिर्णिक्‌ अस्य स्थूणाः अयः, दिवि अश्वाजनीव विभ्राजते।
nan
भद्रे क्षेत्रे तिल्विले वा निमिता, मध्वः गर्तस्य अधि सनेम।
nan
व्याख्या- अनयोः रथौ हिरण्यनिर्णिक्‌ हिरण्यरूपः।
nan
तौ विद्युद्दीप इव प्रकाशेते।
nan
अस्य रथस्य स्थूणा कीलकादयः हिरण्येन निर्मितम्।
nan
हिरण्यनामैतत्‌।
nan
अयोविकारा इत्यर्थः।
nan
तादृशो रथो दिवि अन्तरिक्षे विभ्राजते।
nan
किमिव।
nan
अश्व इव।
nan
अश्वा व्यापनशीला मेघाः।
nan
तैः अश्वैः उत्पादितः विद्युत्।
nan
वाशब्दश्चार्थे, तिल स्नेहने (धा० ६।७६, १०।७३)।
nan
तिलुः स्निग्धा भूमिर्यस्य तत्‌ क्षेत्रं तिल्विलं देवयजनम्‌ इति कथ्यते।
nan
घृतसोमादिना स्निग्धे भद्रे च क्षेत्रे निर्मिता स्थूणा यूपयष्टिरिव स्थितः।
nan
रथाः मधुररूपेण सम्पूर्णवेगेन धावितवन्तः।
nan
कर्मणि षष्ठी।
nan
अधिपूरणमिति कथ्यते।
nan
अथवा गर्तस्याधि रथस्योपरि मध्वः मधु सोमरसं सनेम स्थापयेमेत्यर्थः।
nan
सरलार्थः- हिरण्यनिर्मिताः अनयोः रथस्य स्थूणाः लोहनिर्मिताः।
nan
स रथः विद्युत्‌ इव अन्तरिक्षलोके शोभितः भवति।
nan
कल्याणकारके स्थाने अथवा देवपूजितस्थाने निश्चलस्तम्भ इव मधुमयरथस्योपरि सोमरसं स्थापयामः।
nan
हिरण्यनिर्णिक्‌- हिरण्यस्य निर्णिक्‌ इव निर्णिक्‌ यस्य तत्‌ हिरण्यनिर्णिक्‌ इति बहुव्रीहिसमासः।
nan
भ्राजते- भ्राज्‌-धातोः लट्-लकारे आत्मनेपदे प्रथमपुरुषैकवचने भ्राजते इति रूपम्‌।
nan
निमिता- निपूर्वकमि-धातोः क्तप्रत्यये सुपः डादेशे च निमिता इति रूपम्‌।
nan
अधिगर्त्यस्य- गर्ते इति अधिगर्तम्‌ इति अव्ययीभावसमासः, अधिगर्ते भवः इति अधिगर्त्यः, तस्य अधिगर्त्यस्य ।
nan
हिरण्यरूपमुषसो व्युष्टावयः स्थूणमुदिता सूर्यस्य आ रोहथो वरुण मित्र गर्तमतश्चक्षाथे अदितिं दितिँ च॥
nan
८॥ पदपाठः- हिर॑ण्यऽरूपम्‌।
nan
उषस॑:।
nan
विऽउष्टौ।
nan
अय:ऽस्थूणम्‌।
nan
उत्‌ऽइता।
nan
सूर्यस्य आ।
nan
रोहथः।
nan
व॒रुण ।
nan
मित्रा ।
nan
गर्तम्‌।
nan
अतः।
nan
चक्षाथे इति।
nan
अर्दितिम्‌।
nan
दितिम्‌।
nan
८॥ अन्वयः- वरुण मित्र उषसः व्युष्टौ सूर्यस्य उदिता हिरण्यरूपम्‌ अयःस्थूणं गर्तम्‌ आरोहथः।
nan
अतः अदितिं दितिं च चक्षाथे।
nan
व्याख्या- उषसः व्युष्टौ प्रातःकाले इत्यर्थः।
nan
सूर्यस्य उदिता उदितावुदये।
nan
स एव कालः प्रकारान्तरेणोक्तेः।
nan
तस्मिन्‌ काले हिरण्यरूपम्‌ अयःस्थूणम्‌ अयोमयशङ्कं गर्तं रथं हे वरुण हे मित्र युवां गर्तम्‌ आरोहथः यज्ञं प्राप्नुम्‌।
nan
अतः अस्माद्धेतोः अदितिम्‌ अखण्डनीयां भूमिं दितिं खण्डितां प्रजादिकां च चक्षाथे पश्यथः।
nan