source
stringlengths
1
11.1k
target
stringlengths
1
10.5k
स्वसामर्थ्यवशात्‌ इमां पृथिवीं स्वर्गं च धारयतः इमौ देवौ।
nan
यजमानः प्रार्थयति यत्‌ - हे क्षिप्रदातारौ!
nan
भवन्तौ ओषधीन्‌ गोसमूहान्‌ च वर्धयताम्‌, वर्षणं च कुरुताम्‌।
nan
निपुणतया रथे योजिताः भवतोः अश्वगणाः भवन्तौ वहन्तु इति।
nan
जलसमूहः विग्रहं धारयित्वा मित्रावरुणयोः अनुसरणं करोति, किञ्च पुरातनाः नद्यः एनयोः अनुग्रहात्‌ पुनः प्रवहन्ति।
nan
यजमानः प्रार्थयति यत्‌ - हे अन्नसम्पन्नौ बलशालिनौ मित्रावरुणौ!
nan
भवन्तौ सुप्रसिद्धाः स्वशरीरप्रभाः वर्धयित्वा, मन्त्ररक्षितयज्ञवत्‌ सम्पूर्णां पृथिवीम्‌ इमां संरक्ष्य यज्ञभूमे: मध्यस्थे रथे आरोहणं कुरुताम्‌ इति।
nan
यज्ञभूमौ भवन्तौ यं यजमानं रक्षतः, शोभनस्तुतिकारिणं तं प्रति भवन्तौ दानशालिनौ भवताम्‌।
nan
यतो हि भवन्तौ उभौ क्रोधविहीनौ सन्तौ धनं सहस्रस्तम्भसमन्वितं सौधं च धारयतः इति।।
nan
मित्रावरुणयोः रथः सुवर्णनिर्मितः वर्तते।
nan
अयं रथः अन्तरिक्षे विद्युत्‌ इव शोभमानो वर्तते।
nan
वयं यजमानाः यथा उपयुक्तस्थाने यूपयष्टिसमन्वितायां यज्ञभूमौ रथोपरि सोमरसं स्थापयितुं समर्थाः भवेम तादृशम्‌ अनुग्रहं भवन्तौ कुरुताम्‌ इति प्रार्थना
nan
दानशीलौ विश्वरक्षकौ एतौ मित्रावरुणौ निरवरच्छिन्नसुखस्य प्रदाने समर्थौ।
nan
प्रत्यूषसि मित्रावरुणौ सूर्योदयात्‌ परं लोहकीलकसमन्वितसुवर्णरथे आरुह्य अदितिं दितिं च अवलोकेते।
nan
मित्रावरुणौ निरवच्छिन्नस्य निरतिशयस्य च सुखस्य प्रदाने समर्थौ।
nan
अतः यजमानः प्रार्थयति यत्‌ - भवन्तौ अस्मभ्यं तादृशं सुखं प्रयच्छताम्‌ इति।
nan
अस्मिन्‌ पाठे द्वे सूक्ते आलोचिते।
nan
तयोः विष्णुसूक्तस्य सारादिकम्‌ पूर्वार्ध विद्यते।
nan
उत्तरार्थे तु मित्रावरुणसूक्तम्‌ आलोचितम्‌।
nan
अतः तस्य संक्षेपेण सारोऽत्र प्रदीयते।
nan
आदिमसूक्तं मित्रावरुणसूक्तम्‌।
nan
विश्वे भ्रातृत्वं कीदृशं भवितव्यमिति बोधयितुमेव प्रवृत्तमिदं सूक्तम्‌।
nan
अत्र मित्रः प्राणान्‌ रक्षयति वरुणश्च जलानि धारयति।
nan
वरुणश्च जलधारकरूपेण अथवा वृष्टिकारकरूपेण प्रतिपादितः।
nan
ऋग्वेदस्य ऐतरेयब्राह्मणग्रन्थानुसारेण मित्रः रात्रिरूपेण वरुणश्च दिनरूपेण प्रतिपादितौ।
nan
अस्य मित्रावरुणसूक्तस्य आत्रेयः श्रुतिविद्‌ ऋषिः, मित्रावरुणौ देवौ, त्रिष्टुप्‌ छन्दः।
nan
विष्णुसूक्तस्य सारं लिखत।
nan
विष्णोर्नुकं वीर्याणि... इत्यादिमन्त्रं व्याख्यात।
nan
प्रतद्विष्णुः... इत्यादिमन्त्रं व्याख्यात।
nan
प्र विष्णवे शूषमेतु मन्म... इत्यादिमन्त्रं व्याख्यात।
nan
यस्य त्री पूर्णा... इत्यादिमन्त्रं व्याख्यात।
nan
तदस्य प्रयमभि पाथो अश्याम्‌... इत्यादिमन्त्रं व्याख्यात।
nan
ता वां वास्तून्युश्मसि... इत्यादिमन्त्रं व्याख्यात।
nan
मित्रावरुणसूक्तस्य सारं लिखत।
nan
ऋतेन ऋतमपिहितम्‌... इत्यादिमन्त्रं व्याख्यात।
nan
अक्रविहस्ता सुकृते... इत्यादिमन्त्रं व्याख्यात।
nan
आ वामश्वासः... इत्यादिमन्त्रं व्याख्यात।
nan
यद्बंहिष्ठं नातिविधे... इत्यादिमन्त्रं व्याख्यात।
nan
पाठगतप्रश्नानाम्‌ उत्तराणि ऋषि: दीर्घतमा औचथ्यः, छन्दः विराट्‌ त्रिष्टुप्, देवता विष्णुः।
nan
नु कम्‌।
nan
व्यापनशीलः।
nan
वीरकर्माणि।
nan
विविधं निर्मितवान्‌।
nan
लोकवाची।
nan
त्रेधा।
nan
कुत्सितहिंसादिकर्ता दुर्गमप्रदेशगन्ता वा।
nan
अस्मत्कृत्यादिजन्यं बलं महत्त्वम्‌।
nan
अधोवर्तीनि अतलवितलादिसप्तभुवनान्युपात्तानि।
nan
धृतवान्‌।
nan
त्रयाणां धातूनां समाहारः।
nan
अन्तरिक्षम्‌
nan
सर्वश्रुतिस्मृतिपुराणादिप्रसिद्धिद्योतनार्थः।
nan
कामयामहे।
nan
आत्रेयः श्रुतविद्‌ ऋषिः, मित्रावरुणौ देवते, त्रिष्टुप्‌ छन्दः।
nan
ध्रुवम्‌।
nan
आच्छादितम्‌।
nan
उदकम्‌।
nan
स्था-धातोः लिट्-लकारे प्रथमपुरुषबहुवचने।
nan
सततगन्ता।
nan
ङीप्‌।
nan
पू-धातोः 'अच इः:' इति औणादिकसूत्रेण इप्रत्यये।
nan
धे-धातोः।
nan
जीरं दानू ययोस्तौ इति बहुव्रीहिसमासः।
nan
क्षिप्रदानौ।
nan
पिव्‌-धातोः।
nan
अश्वाः।
nan
धृ-धातोः णिचि लङ्-लकारे मध्यमपुरुषद्विवचने।
nan
निपूर्वकनिज्‌-धातोः क्विप्प्रत्यये प्रथमैकवचने।
nan
पृथिवी।
nan
यागभूमिषु।
nan
धृतः दक्षः ययोस्तौ धृतदक्षौ इति बहुव्रीहिसमासः।
nan
आस्‌-धातोः आत्मनेपदे लट्-लकारे मध्यमपुरुषद्विवचने।
nan
अकृपणहस्तौ।
nan
न क्रविः अक्रविः, अक्रवी हस्तौ ययोस्तौ अक्रविहस्तौ इति बहुव्रीहिः।
nan
सहस्रं स्थूणाः यस्य तं सहस्रस्थूणम्‌ इति बहुव्रीहिसमासः।
nan
रूपनाम।
nan
देवयजनस्थानम्‌।
nan
तिलुः स्निग्धा इला भूमिर्यस्य तत्‌ क्षेत्रम्‌।
nan
गर्ते इति अधिगर्तम्‌ इति अव्ययीभावसमासः, अधिगर्ते भवः इति अधिगर्त्यः।
nan
शोभनदानौ।
nan
बहुलतमम्‌।
nan
सुखं गृहं वा।
nan
ऋग्वेदे एकस्य प्रसिद्धदेवस्य स्तुतिं विधाय अभीष्टसिद्ध्यर्थं सः देवः प्रार्थ्यते।
nan
एवं मानवानां सामाजिकदुर्व्यवहाराणां निराकरणाय सूक्तानां सङ्कलनं कृतम्‌।
nan
यदा समाजे भोगविलासानां शक्तिः वर्धिता भवति तदा द्युतकार्यम्‌ अपि वर्धते।
nan
वैदिककालतः एव अक्षक्रीडा बहुप्रचलितसामाजिककुक्रीडा अस्ति।
nan
ऋग्वेदस्य दशममण्डले चतुस्त्रिंशत्तमं सूक्तम्‌ एनं विषयम्‌ आधारीकृतवत्‌।
nan
इदमेव अक्षसूक्तम्‌ इति नाम्ना विख्यातम्‌।
nan
अस्य सूक्तस्य ऐलूषकवषः ऋषिः, त्रिष्टुप्‌ छन्दः, सप्तममन्त्रस्य जगती छन्दः, देवता च अक्षः ऋषिः।
nan
अस्मिन्‌ सूक्ते यत्‌ मुख्यतया उक्तं तत्‌ अक्षक्रीडा न करणीया तत्स्थाने कृषिकर्म इत्यादिकर्म कर्तव्यम्‌।
nan
यथा मन्त्रे एव उक्तं- अक्षैर्मा दीव्यः कृषिमित्कृषस्व इत्यादि।
nan
एवं प्रकारेण सूक्तस्य माहात्म्यं प्रकटितम्‌।
nan
अस्य पाठस्य पठनात्‌ भवान्‌ - अक्षसूक्तस्य संहितापाठं पदपाठम्‌ अन्वयं व्याख्यां च पठिष्यति। अक्षक्रीडनस्य कुफलं भवान्‌ ज्ञास्यति। अक्षक्रीडनात्‌ किं किं त्यक्तं भवति तद्‌ ज्ञास्यति। वैदिकशब्दान्‌ ज्ञास्यति। वैदिकलौकिकशब्दयोः मध्ये भेदं ज्ञास्यति।अक्षक्रीडनस्य स्थाने किं करणीयम्‌ इत्यपि अवगमिष्यति।
nan
प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः।
nan
सोम॑स्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान्‌॥
nan
१॥ न मां मिमेथ न जिंहीळ एषा शिवा सखिभ्य उत मह्यमासीत्‌।
nan
अक्षस्याहमेकपरस्य॑ हेतो- रनुव्रतामप जायामरोधम्‌॥
nan
२॥ द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मर्डितार॑म्‌।
nan
अश्वस्येव जर॑तो वस्न्य॑स्य नाहं विन्दामि कित॒वस्य भोर्ग॑म्‌॥
nan
३॥ अन्ये जायां परि मृशान्त्यस्य यस्यागृधद्वेदने वाज्यश्क्षः।
nan