source
stringlengths
1
11.1k
target
stringlengths
1
10.5k
सरलार्थः- हे मित्रवरुणौ युवां उषायाः प्रारम्भे सूर्यस्य उदये सति हिरण्यनिर्मिते लोहदण्डयुक्ते रथे आरोहणं कुरुताम्‌।
nan
किञ्च अदितिं दितिं च अवलोकयतम्‌।
nan
व्युष्टौ- विपूर्वकोच्छ-धातोः क्तिन्प्रत्यये व्युष्टि इति रूपम्‌।
nan
तस्य सप्तम्येकवचने व्युष्टौ इति रूपम्‌।
nan
आरोहथः- आङ्पूर्वकरुह्‌-धातोः लट्-लकारे मध्यमपुरुषद्विवचने आरोहथः इति रूपम्‌।
nan
चक्षाथे- चक्ष्‌-धातोः लट्-लकारे मध्यमपुरुषद्विवचने चक्षाथे इति रूपम्‌।
nan
यद्बंहिष्ठं नातिविधे सुदान्‌ अच्छिद्रं शर्म भुवनस्य गोपा।
nan
तेन॑ नो मित्रावरुणावविष्टं सिर्षांसन्तो जिगीवांस॑: स्याम॥
nan
९॥ पदपाठः- यत्‌।
nan
बंहिष्ठम्‌।
nan
न।
nan
अतिऽविधे।
nan
सुदान्‌ इति सुऽदानू।
nan
अच्छिद्रम्‌ शर्म।
nan
भुवनस्य।
nan
तेन ।
nan
नः ।
nan
मित्रावरुणौ।
nan
अविष्टम्‌।
nan
सिषासन्तः।
nan
जिगीवांस॑:।
nan
९॥ अन्वयः- मित्रावरुणौ!
nan
सुदानू भुवनस्य गोपा वंहिष्ठं यत्‌ अच्छिद्रं न अतिविधे शर्म नः अविष्टं सिषासन्तः जिगीवांसः स्याम।
nan
व्याख्या- दाक्षायणयज्ञे 'यद्‌ बंहिष्ठम्‌' इति नवमी द्वितायस्याममावास्यायां मैत्रावरुणस्य हविषो याज्या।
nan
सूत्रितञ्च 'आ नो मित्रावरुणा यद्‌' बंहिष्ठं नातिविधे सुदानू (आ० श्रौ० २।१४।११) इति।
nan
मैत्रावरुणे पशौ हविष एषैव याज्या।
nan
सूत्रितञ्च 'यद्गंहिष्ठं नातिविधे सुदानू हिरण्यगर्भः समवर्तताग्रे' (आ० श्रौ० ३।८।१) इति।
nan
हे सुदानू शोभनदानौ, हे भुवनस्य गोपा, युवां बंहिष्ठ बहुलतमं यत्‌ अच्छिदम्‌ अनवच्छिन्नं शर्म सुखं गृहं वा नातिविधे अतिवेद्धुमशक्यं शर्म इति शर्मविशेषणम्‌।
nan
तादृशं शर्म धारयथः तेन शर्मणा नः अस्मान्‌ अविष्टं रक्षतम्‌।
nan
हे मित्रावरुणौ सिषासन्तः धनानि सम्भक्तुमिच्छन्तो वयं जिगीवांसः शत्रूणां धनानि जेतुमिच्छन्तः स्याम भवेम।
nan
सरलार्थः- हे दानशीलौ विश्वस्य रक्षकौ मित्रवरुणौ युवां द्वौ महत्तमौ, छेदहीनेन तथा क्षतिहीनेन सुखेन अस्माकं रक्षतम्‌।
nan
एवम्‌ अभीप्सितधनयुक्ताः भूत्वा वयं यथा शत्रुविजयिनौ भवेमः।
nan
बंहिष्ठम्‌- बहुलशब्दात्‌ इष्ठन्प्रत्यये बहुलस्थाने बंहादेशे द्वितीयैकवचने बंहिष्ठम्‌ इति रूपम्‌।
nan
सुदानू- सु(शोभनम्‌) दानु ययोस्तौ सुदानू इति बहुव्रीहिसमासः।
nan
अच्छिद्रम्‌- अविद्यमानं छिद्रं यस्मिन्‌ तत्‌ अच्छिद्रम्‌ इति बहुव्रीहिसमासः।
nan
शर्म- शृणाति हिनस्ति दुःखमिति शर्म ।
nan
सिषासन्तः- सन्‌-धातोः सन्‌-प्रत्यये शतृप्रत्यते कृते प्रथमाबहुवचने सिषासन्तः इति रूपम्‌
nan
जिगीवांसः- जि-धातोः क्वसुन्प्रत्यये प्रथमाबहुवचने जिगीवांसः इति रूपम्‌।
nan
स्याम- अस्‌-धातोः विधिलिङि उत्तमपुरुषबहुवचने स्याम इति रूपम्‌।
nan
बर्हिः इति शब्दस्य कः अर्थः।
nan
उर्वीशब्दस्य कः अर्थः।
nan
इळासु इत्यस्य कः अर्थः।
nan
धृतदक्षा इत्यस्य कः विग्रहः कश्च समासः ।
nan
आसाथे इति रूपं कथं सिद्ध्येत्‌।
nan
अक्रविहस्ता इत्यस्य कः विग्रहः कश्च समासः।
nan
सहस्रस्थूणम्‌ इत्यस्य कः विग्रहः कश्च समासः।
nan
निर्णिगिति किम्‌।
nan
किं तिल्विलम्‌।
nan
तिल्विलम्‌ इत्यस्य कः विग्रहः।
nan
अक्रविहस्ता इत्यस्य कः अर्थः?
nan
अधिगर्त्यः इति रूपं कथं सिद्ध्येत्‌।
nan
सुदानू इत्यस्य कः अर्थः।
nan
बंहिष्ठम्‌ इत्यस्य कः अर्थः।
nan
शर्म इत्यस्य कः अर्थः।
nan
२०.५) मित्रावरुणस्वरूपम्‌ वैदिकयुगे प्रसिद्धासु देवतासु अन्यतमा हि वरुणदेवता।
nan
वैदिकदेवतामण्डलेषु विशिष्टं स्थानम्‌ एकम्‌ अलङ्करोति अयं वरुणः।
nan
तथापि वरुणदेवम्‌ उद्दिश्य केवलं द्वादश सूक्तानि एव सम्पूर्ण ऋग्वेदे निवेदितानि।
nan
आच्छादनार्थकात्‌ वृधातोः वरुणशब्दो निष्पन्नः।
nan
अत एव भगवान्‌ यास्कः उक्तवान्‌ - वरुणो वृणोतीति सतः।
nan
अर्थात्‌ मेघद्वारा इयं देवता आकाशम्‌ आवृणोति, तस्मात्‌ अस्या नाम वरुणः इति।
nan
अथर्ववेदस्य भाष्ये सायणाचार्यः - वरुणः रात्र्यभिमानिनी देवता इति वर्णितवान्‌।
nan
मित्रशब्दस्य व्युत्पत्तिदर्शनावसरे भगवान्‌ यास्कः उक्तवान्‌ - मित्रः प्रमीतेस्त्रायते इति।
nan
अर्थात्‌ मित्रः प्रमीतेः मरणात्‌ वर्षणद्वारा निखिलजनान्‌ त्रायते।
nan
अन्यत्र पुनः तेनैव उक्तम्‌ - मित्रः जलं प्रक्षिपन्‌ अन्तरिक्षलोकं गच्छति इति।
nan
मित्रो हि जलवर्षणकारिणी देवता इति यास्कव्याख्यानात्‌ ज्ञायते।
nan
मित्रः वरुणश्च यथाक्रमं दिनस्य रात्रेश्च अभिमानिन्यौ देवते इति आचार्यः सायणः उक्तवान्‌।
nan
तस्य उक्तिर्हि - मित्रः अहरभिमानिनी देवता वरुणः रात्र्यभिमानिनी।
nan
मैत्रं वा अहः वारुणी रात्रिः इति श्रुतिः।
nan
ऋग्वेदे मित्रस्य वरुणस्य च सम्मिलिततया बहवः स्तवाः वर्तन्ते।
nan
एतौ द्वौ युग्मतया मित्रावरुणौ इत्युच्येते।
nan
मित्रः वरुणश्च उभयौ सूर्यरूपेण एव ग्राह्यौ, यतो हि सूर्य एव दिवारात्र्यौः स्रष्टा।
nan
सूर्यरश्मिः मेघं सृजति, आकाशं च मेघावृतं करोति।
nan
अयं मेघः अथवा अन्धकारः एव वरुणस्य पाशस्वरूपः वर्तते।
nan
यस्मिन्‌ सूर्यमण्डले मित्रावरुणयोः अवस्थितिः वर्तते, तन्मण्डलं सदा सत्यावृतं भवति।
nan
तत्स्थानात्‌ एव ऋत्विजः अश्वगणान्‌ अर्थात्‌ सूर्यरश्मीन्‌ विमोचयन्ति।
nan
मित्रावरुणौ यत्र वसतः, तस्मिन्‌ स्थाने प्रायः दशसहस्राणि रश्मयः समवेततया अवतिष्ठन्ते।
nan
मित्रावरुणयोः माहात्म्यात्‌ एव निरन्तरभ्रमणरतः सूर्यः दैनिकगत्या बद्धान्‌ जलराशीन्‌ आकर्षयितुं समर्थो भवति।
nan
एतौ देवौ स्वयं भ्रमतः सूर्यस्य प्रीतिदायकान्‌ दीप्तिसमूहान्‌ वर्धयतः।
nan
एतयोः उभयोः एक एव रथः स च निरन्तरं भ्रमति।
nan
मित्रावरुणौ स्वसामर्थ्यवशात्‌ इमां पृथिवीं स्वर्गं च धारयतः।
nan
जलसमूहः विग्रहं धारयित्वा एतयोः अनुसरणं करोति, किञ्च पुरातनाः नद्यः एनयोः अनुग्रहात्‌ पुनः प्रवहन्ति।
nan
मित्रावरुणयोः रथः सुवर्णनिर्मितः वर्तते।
nan
अयं रथः अन्तरिक्ष विद्युत्‌ इव शोभमानो वर्तते।
nan
प्रत्यूषसि मित्रावरुणौ सूर्योदयात्‌ परं लोहकीलकसमन्वितसुवर्णरथे आरुह्य अदितिं दितिं च अवलोकेते।
nan
दानशीलौ विश्वरक्षकौ एतौ मित्रावरुणौ निरवच्छिन्नसुखस्य प्रदाने समर्थौ।
nan
२०.६) मित्रावरुणसूक्तस्य सारः मित्रः वरुणश्च यथाक्रमं दिनस्य रात्रेश्च अभिमानिन्यौ देवते इति आचार्यः सायणः उक्तवान्‌।
nan
तस्य उक्तिर्हि - 'मित्रः अहरभिमानिनी देवता वरुणः रात्र्यभिमानिनी।
nan
मैत्रं वा अहः वारुणी रात्रिः' इति।
nan
ऋग्वेदे मित्रस्य वरुणस्य च सम्मिलिततया बहवः स्तवाः वर्तन्ते।
nan
एतौ द्वौ युग्मतया मित्रावरुणौ इत्युच्येते।
nan
मित्रः वरुणश्च उभौ सूर्यरूपेण एव ग्राह्यौ, यतो हि सूर्य एव दिवारात्र्यै स्रष्टा।
nan
आत्रेय-ऋषिदृष्ट मित्रावरुणसूक्ते तावत्‌ तयोः वर्णनं विहितम्‌।
nan
ऋतेन आच्छादितं मित्रावरुणयोः वासस्थानभूतं सूर्यमण्डलम्‌ अहम्‌ अपश्यम्‌।
nan
तत्र स्थितान्‌ अश्वसमूहस्य उपासकान् स्तोतारः इति वर्णयन्ति।
nan
प्रायः दशसहस्रं रश्मयः समवेततया तस्मिन्‌ स्थले अवतिष्ठन्ते।
nan
देवानां रूपसमूहेषु श्रेष्ठं रूपम्‌ अहम्‌ अपश्यम्‌ - इति यजमानः स्तौति।
nan
मित्रावरुणयोः माहात्म्यम् अतिप्रशस्तं, यद्वशात्‌ एव निरन्तरभ्रमणरतः सूर्यः दैनिकगत्या बद्धान्‌ जलराशीन्‌ आकर्षयितुं समर्थो भवति।
nan
एतौ देवौ स्वयं भ्रमतः सूर्यस्य प्रीतिदायकान्‌ दीप्तिसमूहान्‌ वर्धयतः।
nan
एतयोः उभयोः समान एव रथः निरन्तरं भ्रमति।
nan
ये तु मित्रावरुणयोः स्तुतिं कुर्वन्ति, ते स्तोतारः एतयोः अनुग्रहात्‌ राजपदं लभन्ते।
nan